महर्षीणां भृगुरहं...

(१०.२५ महर्षीणां भृगुरहं.... इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः सम्पादयतु

 
गीतोपदेशः
महर्षीणां भृगुरहं गिरामस्म्येकमक्षरम् ।
यज्ञानां जपयज्ञोऽस्मि स्थावराणां हिमालयः ॥ २५ ॥

अयं भगवद्गीतायाः दशमोऽध्यायस्य विभूतियोगस्य पञ्चविंशतितमः(२५) श्लोकः ।

पदच्छेदः सम्पादयतु

महर्षीणां भृगुः अहं गिराम् अस्मि एकम् अक्षरम् यज्ञानां जपयज्ञः अस्मि स्थावराणां हिमालयः ॥ २५ ॥

अन्वयः सम्पादयतु

महर्षीणाम् अहं भृगुः । गिराम् एकम् अक्षरम् अस्मि । यज्ञानां जपयज्ञः अस्मि । स्थावराणां हिमालयः अस्मि ।

शब्दार्थः सम्पादयतु

महर्षीणाम् = महामुनीनाम्
अहं भृगुः = अहं भृगुमहर्षिः
गिराम् = वाचाम्
एकम् अक्षरमस्मि = ओङ्कारः अस्मि
यज्ञानाम् = यागेषु
जपयज्ञः अस्मि = जपयागः अस्मि
स्थावराणाम् = स्थितिमताम्
हिमालयः = हिमवान् ।

अर्थः सम्पादयतु

महर्षिषु अहं भृगुमहर्षिः । शब्दरूपासु गीर्षु ओारः अस्मि । यज्ञेषु जपयज्ञः अस्मि । स्थितियुक्तेषु अहं हिमालयपर्वतः अस्मि ।

सम्बद्धसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=महर्षीणां_भृगुरहं...&oldid=418718" इत्यस्माद् प्रतिप्राप्तम्