अश्वत्थः सर्ववृक्षाणां...
(१०.२६ अश्वत्थः सर्ववृं.... इत्यस्मात् पुनर्निर्दिष्टम्)
श्लोकः
सम्पादयतुअयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- अश्वत्थः सर्ववृक्षाणां देवर्षीणां च नारदः ।
- गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः ॥ २६ ॥
अयं भगवद्गीतायाः दशमोऽध्यायस्य विभूतियोगस्य षड्विंशतितमः(२६) श्लोकः ।
पदच्छेदः
सम्पादयतुअश्वत्थः सर्ववृक्षाणां देवर्षीणां च नारदः गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः ॥ २६ ॥
अन्वयः
सम्पादयतुसर्ववृक्षाणाम् अश्वत्थः देवर्षीणां च नारदः गन्धर्वाणां चित्ररथः सिद्धानां कपिलः मुनिः (अस्मि) ।
शब्दार्थः
सम्पादयतु- सर्ववृक्षाणाम् = सकलतरूणाम्
- अश्वत्थः = अश्वत्थवृक्षः
- देवर्षीणाम् = सुरमुनीनाम्
- नारदः = नारदमहर्षिः
- गन्धर्वाणाम् = गन्धर्वाणाम्
- चित्ररथः = तन्नामकः प्रसिद्धगन्धर्वः
- सिद्धानाम् = जन्मतः ज्ञानादिशालिनाम्
- कपिलः मुनिः = कपिलनामधेयः मुनिः ।
अर्थः
सम्पादयतुसर्वेषु वृक्षेषु अहम् अश्वत्थः अस्मि । देवमुनिषु अहं नारदः । गन्धर्वेषु चित्ररथः अस्मि । जन्मना एव ज्ञानैश्वर्यादिकं प्राप्तवत्सु सिद्धेषु अहं कपिलमुनिः अस्मि ।