अनन्तश्चास्मि नागानां...
(१०.२९ अनन्तश्चास्मि.... इत्यस्मात् पुनर्निर्दिष्टम्)
श्लोकः
सम्पादयतुअयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- अनन्तश्चास्मि नागानां वरुणो यादसामहम् ।
- पितॄणामर्यमा चास्मि यमः संयमतामहम् ॥ २९ ॥
अयं भगवद्गीतायाः दशमोऽध्यायस्य विभूतियोगस्य नवविंशतितमः(२९) श्लोकः ।
पदच्छेदः
सम्पादयतुअनन्तः च अस्मि नागानां वरुणः यादसाम् अहम् पितॄणाम् अर्यमा च अस्मि यमः संयमताम् अहम् ॥ २९ ॥
अन्वयः
सम्पादयतुनागानां च अनन्तः अस्मि । यादसाम् अहं वरुणः । पितॄणां च अर्यसा अस्मि । संयमतां यमः अहम् ।
शब्दार्थः
सम्पादयतु- नागानां च = विषरहितानाम् उरगाणाम्
- अनन्तः अस्मि = अनन्तः अस्मि
- यादसाम् = जलचराणाम्
- अहं वरुणः = अहं वरुणदेवः
- पितॄणां च = पितृदेवतानाम्
- अर्यमा = अर्यमा नाम पितृराजः
- संयमताम् = संयमवताम्
- यमः = अन्तकः ।
अर्थः
सम्पादयतुसर्पविशेषेषु नागराजः अनन्तः अहम् अस्मि । जलचरेषु अहं तदधिपतिः वरुणः अस्मि । पितृदैवतेषु अर्यमा अस्मि । संयमनं कुर्वत्सु अन्तकः अस्मि ।