मृत्युः सर्वहरश्चाहम्...

(१०.३४ मृत्युः सर्वहरः.... इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः सम्पादयतु

 
गीतोपदेशः
मृत्युः सर्वहरश्चाहमुद्भवश्च भविष्यताम् ।
कीर्तिः श्रीर्वाक्च नारीणां स्मृतिर्मेधा धृतिः क्षमा ॥ ३४ ॥

अयं भगवद्गीतायाः दशमोऽध्यायस्य विभूतियोगस्य चतुर्स्त्रिंशत्तमः(३४) श्लोकः ।

पदच्छेदः सम्पादयतु

मृत्युः सर्वहरः च अहम् उद्भवः च भविष्यताम् कीर्तिः श्रीः वाक् च नारीणां स्मृतिः मेधा धृतिः क्षमा ॥ ३४ ॥

अन्वयः सम्पादयतु

अहं सर्वहरः मृत्युः च । भविष्यताम् उद्भवः च । नारीणां कीर्तिः श्रीः वाक् स्मृतिः मेधा धृतिः क्षमा च ।

शब्दार्थः सम्पादयतु

सर्वहरः = संहारकारिणां मध्ये
अहं मृत्युः च = अहं मृत्युदेवता च
भविष्यताम् = उत्पत्स्यमानानां शुभानाम्
उद्भवः च = प्रकर्षः च
नारीणाम् = स्त्रीणाम्
कीर्तिः = यशः
श्रीः = शोभा
वाक् = वाणी
स्मृतिः = स्मरणम्
मेधा = उत्तमा बुद्धिः
धृतिः = धैर्यम्
क्षमा च = सहनं च ।

अर्थः सम्पादयतु

अहं प्राणहरः मृत्युः । अहम् उत्पत्स्यमानानां पदार्थानाम् अभ्युदयः । नारीणां यशः शोभा वाणी स्मृतिः मेधा धृतिः क्षमा इत्येते सद्गुणाः अहम् अस्मि ।

सम्बद्धसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु