वृष्णीनां वासुदेवोऽस्मि...

(१०.३७ वृष्णीनां वासुदेवो.... इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः सम्पादयतु

 
गीतोपदेशः
वृष्णीनां वासुदेवोऽस्मि पाण्डवानां धनञ्जयः ।
मुनीनामप्यहं व्यासः कवीनामुशना कविः ॥ ३७ ॥

अयं भगवद्गीतायाः दशमोऽध्यायस्य विभूतियोगस्य सप्तत्रिंशत्तमः(३७) श्लोकः ।

पदच्छेदः सम्पादयतु

वृष्णीनां वासुदेवः अस्मि पाण्डवानां धनञ्जयः मुनीनाम् अपि अहं व्यासः कवीनाम् उशना कविः ॥ ३७ ॥

अन्वयः सम्पादयतु

वृष्णीनां वासुदेवः अस्मि । पाण्डवानां धनञ्जयः । मुनीनाम् अपि अहं व्यासः । कवीनाम् उशना कविः ।

शब्दार्थः सम्पादयतु

वृष्णीनाम् = यादवानाम्
वासुदेवः अस्मि = कृष्णः अस्मि
पाण्डवानाम् = पाण्डुपुत्राणाम्
धनञ्जयः = अर्जुनः
मुनीनाम् अपि = ऋषिषु अपि
व्यासः = बादरायणः
कवीनाम् = क्रान्तदर्शिनाम्
उशना कविः = शुक्राचार्यः

अर्थः सम्पादयतु

यादवानां कृष्णः अस्मि । पाण्डवानां धनञ्जयः अहमेव अस्मि । मुनीनाम् अपि अहं व्यासः । क्रान्तदर्शिनां शुक्राचार्यः ।

सम्बद्धसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु