दण्डो दमयतामस्मि...
(१०.३८ दण्डो दमयितां.... इत्यस्मात् पुनर्निर्दिष्टम्)
श्लोकः
सम्पादयतुअयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- दण्डो दमयतामस्मि नीतिरस्मि जिगीषताम् ।
- मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवतामहम् ॥ ३८ ॥
अयं भगवद्गीतायाः दशमोऽध्यायस्य विभूतियोगस्य अष्टात्रिंशत्तमः(३८) श्लोकः ।
पदच्छेदः
सम्पादयतुदण्डः दमयताम् अस्मि नीतिः अस्मि जिगीषताम् मौनं च एव अस्मि गुह्यानां ज्ञानं ज्ञानवताम् अहम् ॥ ३८ ॥
अन्वयः
सम्पादयतुदमयतां दण्डः अस्मि । जिगीषतां नीतिः अस्मि । गुह्यानां मौनं च एव अस्मि । ज्ञानवतां ज्ञानम् अहम् ।
शब्दार्थः
सम्पादयतुदमयताम् = दमयितॄणाम्
- दण्डः = दमनम् अस्मि
- जिगीषताम् = जेतुमिच्छताम्
- नीतिः = नीतिः अस्मि
- गुह्यानाम् = गोप्यानाम्
- मौनं च एव = मौनमेव अस्मि
- ज्ञानवताम् = ज्ञानयुक्तेषु
- ज्ञानम् = प्रज्ञानम् अहम् ।
अर्थः
सम्पादयतुदमयितॄणां दमनम् अस्मि । जेतुम् इच्छतां नीतिः अस्मि । गोप्यानां मौनम् अपि । ज्ञानिनां प्रज्ञानम् अहम् अस्मि ।