एतां विभूतिं योगं च...

(१०.७ एतां विभूतिं योगं.... इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः सम्पादयतु

 
गीतोपदेशः
एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः ।
सोऽविकम्पेन योगेन युज्यते नात्र संशयः ॥ ७ ॥

अयं भगवद्गीतायाः दशमोऽध्यायस्य विभूतियोगस्य सप्तमः(७) श्लोकः ।

पदच्छेदः सम्पादयतु

एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः सः अविकम्पेन योगेन युज्यते न अत्र संशयः ॥ ७ ॥

अन्वयः सम्पादयतु

यः मम एतां विभूतिं योगं च तत्त्वतः वेत्ति सः अविकम्पेन योगेन युज्यते, अत्र संशयः न ।

शब्दार्थः सम्पादयतु

यः = यः मनुजः
एताम् = एनाम्
मम विभूतिम् = मे ऐश्वर्यम्
योगं च = तत्तदर्थनिर्माणसामर्थ्यं च
तत्त्वतः = यथावत्
वेत्ति = जानाति
सः = सः मानवः
अविकम्पेन = अचञ्चलेन
योगेन = सम्यक् दर्शनेन
युज्यते = सम्बध्यते
अत्र = अस्मिन् विषये
संशयः न = सन्देहः नास्ति ।

अर्थः सम्पादयतु

यः मनुष्यः मम एतत् ऐश्वर्यं तत्तत्पदार्थनिर्माणसामर्थ्यं च यथावत् जानाति सः अचञ्चलेन सम्यक् दर्शनेन सम्बध्यते । अस्मिन् विषये संशयः नास्ति ।

रामानुजभाष्यम् सम्पादयतु

विभूतिरैश्वर्यम् । एतां सर्वस्य मदायत्तोत्पत्तिस्थितिप्रवृत्तिरूपां विभूतिं मम हेयप्रत्यनीककल्याणगुणरूपं योगं च यस्तत्त्वतो वेत्ति, सोऽविकम्पेनाप्रकम्पेन भक्तियोगेन युज्यते, नात्र संशयम् । मद्विभूतिविषयं कल्याणगुणविषयं च ज्ञानं भक्तियोगवर्धनमिति स्वयमेव द्रक्ष्यसीत्यभिप्रायम् ॥१०.७॥

सम्बद्धसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=एतां_विभूतिं_योगं_च...&oldid=418501" इत्यस्माद् प्रतिप्राप्तम्