एवमेतद्यथात्थ त्वम्...
(११.०३ एवमेतद्यथात्थ... इत्यस्मात् पुनर्निर्दिष्टम्)
श्लोकः
सम्पादयतुअयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- एवमेतद्यथात्थ त्वमात्मानं परमेश्वर ।
- द्रष्टुमिच्छामि ते रूपमैश्वरं पुरुषोत्तम ॥ ३ ॥
अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य तृतीयः(३) श्लोकः ।
पदच्छेदः
सम्पादयतुएवम् एतत् यथा आत्थ त्वम् आत्मानं परमेश्वर द्रष्टुम् इच्छामि ते रूपम् ऐश्वरं पुरुषोत्तम ॥ ३ ॥
अन्वयः
सम्पादयतुपरमेश्वर ! पुरुषोत्तम ! आत्मानं त्वं यथा आत्थ एवम् एतत् ते ऐश्वरं रूपं द्रष्टुम् इच्छामि ।
शब्दार्थः
सम्पादयतु- परमेश्वर = महेश्वर !
- पुरुषोत्तम = पुरुषश्रे !
- आत्मानम् = स्वम्
- त्वं यथा आत्थ = त्वं येन प्रकारेण ब्रवीषि
- एवम् एतत् = इत्थमेव तत्
- ते ऐश्वरम् = तव ज्ञानैश्वर्यादियुक्तम्
- रूपम् = आकारम्
- द्रष्टुम् = अवलोकयितुम्
- इच्छामि = अभिलषामि ।
अर्थः
सम्पादयतुश्रीकृष्ण ! पुरुषोत्तम ! आत्मानं भवान् येन प्रकारेण वदति तादृशमेव तव ऐश्वर्ययुक्तम् स्वरूपं द्रष्टुम् अभिलषामि ।