मन्यसे यदि तच्छक्यं...

(११.०४ मन्यसे यदि तत् इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः सम्पादयतु

 
गीतोपदेशः
मन्यसे यदि तच्छक्यं मया द्रष्टुमिति प्रभो ।
योगेश्वर ततो मे त्वं दर्शयात्मानमव्ययम् ॥ ४ ॥

अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य चतुर्थः(४) श्लोकः ।

पदच्छेदः सम्पादयतु

मन्यसे यदि तत् शक्यं मया द्रष्टुम् इति प्रभो योगेश्वर ततः मे त्वं दर्शय आत्मानम् अव्ययम् ॥ ४ ॥

अन्वयः सम्पादयतु

प्रभो ! तत् मया द्रष्टुं शक्यम् इति यदि मन्यसे ततः हे योगेश्वर ! त्वम् अव्ययम् आत्मानं मे दर्शय ।

शब्दार्थः सम्पादयतु

प्रभो = ईश्वर !
तत् = तत् रूपम्
द्रष्टुम् = अवलोकितुम्
मया शक्यम् इति = मया शक्यम् इति
यदि मन्यसे = चिन्तयसि चेत्
ततः = तर्हि
योगेश्वर = योगेश्वर !
अव्ययम् = अनश्वरम्
आत्मानम् = स्वम्
मे दर्शय = मां प्रदर्शय ।

अर्थः सम्पादयतु

श्रीकृष्ण ! तत् रूपं मया अवलोकितुं शक्यम् इति यदि चिन्तयसि तर्हि त्वं तत् अनश्वरं रूपं मां दर्शय ।

सम्बद्धसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=मन्यसे_यदि_तच्छक्यं...&oldid=418707" इत्यस्माद् प्रतिप्राप्तम्