एवमुक्त्वा ततो राजन्...
(११.०९ एवमुक्त्वा ततो... इत्यस्मात् पुनर्निर्दिष्टम्)
श्लोकः
सम्पादयतुअयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
सञ्जय उवाच -
- एवमुक्त्वा ततो राजन्महायोगेश्वरो हरिः ।
- दर्शयामास पार्थाय परमं रूपमैश्वरम् ॥ ९ ॥
अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य नवमः(९) श्लोकः ।
पदच्छेदः
सम्पादयतुएवम् उक्त्वा ततः राजन् महायोगेश्वरः हरिः दर्शयामास पार्थाय परमं रूपम् ऐश्वरम् ॥ ९ ॥
अन्वयः
सम्पादयतुराजन् ! महायोगेश्वरः हरिः एवम् उक्त्वा ततः परमम् ऐश्वरं रूपं पार्थाय दर्शयामास ।
शब्दार्थः
सम्पादयतु- राजन् = धृतराष्ट्र !
- महायोगेश्वरः = महान् योगेश्वरः
- हरिः = कृष्णः
- एवम् = इत्थम्
- उक्त्वा = कथयित्वा
- ततः = पश्चात्
- परमम् = उत्कृष्टम्
- ऐश्वरम् = ईश्वरसम्बन्धिनम्
- रूपम् = आकारम्
- पार्थाय = अर्जुनाय
- दर्शयामास = प्रदर्शितवान् ।
अर्थः
सम्पादयतुधृतराष्ट्र ! महान् योगेश्वरः कृष्णः इत्थम् उक्त्वा पश्चात् स्वीयम् उत्कृष्टम् ईश्वरसम्बन्धिनम् आकारं पार्थाय प्रदर्शितवान् ।