दिव्यमाल्याम्बरधरं...
(११.११ दिव्यमाल्याम्बरधरं इत्यस्मात् पुनर्निर्दिष्टम्)
श्लोकः
सम्पादयतुअयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम् ।
- सर्वाश्चर्यमयं देवमनन्तं विश्वतोमुखम् ॥ ११ ॥
अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य एकादशः(११) श्लोकः ।
पदच्छेदः
सम्पादयतुदिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम् सर्वाश्चर्यमयं देवम् अनन्तं विश्वतोमुखम् ॥ ११ ॥
अन्वयः
सम्पादयतु(तच्च रूपम्) अनेकवक्त्रनयनम् अनेकाद्भुतदर्शनम् अनेकदिव्याभरणं दिव्यानेकोद्यतायुधं दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनं सर्वाश्चर्यमयं देवम् अनन्तं विश्वतोमुखम् ।
शब्दार्थः
सम्पादयतु- अनेकवक्त्रनयनम् = तच्च रूपं बहुमुखनेत्रम्
- अनेकाद्भुतदर्शनम् = विविधाश्चर्योपेतम्
- अनेकदिव्याभरणम् = विविधदिव्यालारम्
- दिव्यानेकोद्यतायुधम् = बहुदिव्यशस्त्रास्त्रम्
- दिव्यमाल्याम्बरधरम् = लोकोत्तरमालावस्त्रधारकम्
- दिव्यगन्धानुलेपनम् = लोकोत्तरचन्दनानुलेपनम्
- सर्वाश्चर्यमयम् = सकलाद्भुतमयम्
- देवम् = विराजमानम्
- अनन्तम् = अन्तरहितम्
- विश्वतोमुखम् =सर्वतोवक्त्रं च ।
अर्थः
सम्पादयतुभगवान् कृष्णः अर्जुनाय तादृशं स्वरूपं प्रदर्शयामास यस्मिन् बहूनि मुखानि नेत्राणि उतवस्तूनि दिव्याभरणानि लोकोत्तरशस्त्राणि च आसन् । तच्च स्वरूपम् अत्यन्तं विस्मयकरं द्योतमानं व्याप्तं च आसीत्।