तत्रैकस्थं जगत्कृत्स्नं...

(११.१३ तत्रैकस्थं जगत्... इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः सम्पादयतु

 
गीतोपदेशः
तत्रैकस्थं जगत्कृत्स्नं प्रविभक्तमनेकधा ।
अपश्यद्देवदेवस्य शरीरे पाण्डवस्तदा ॥ १३ ॥

अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य त्रयोदशः(१३) श्लोकः ।

पदच्छेदः सम्पादयतु

तत्र एकस्थं जगत् कृत्स्नं प्रविभक्तम् अनेकधा अपश्यत् देवदेवस्य शरीरे पाण्डवः तदा ॥ १३ ॥

अन्वयः सम्पादयतु

तदा पाण्डवः देवदेवस्य तत्र शरीरे अनेकधा प्रविभक्तं कृत्स्नं जगत् एकस्थम् अपश्यत् ।

शब्दार्थः सम्पादयतु

तदा = तदानीम्
पाण्डवः = अर्जुनः
देवदेवस्य = हरेः
तत्र = तस्मिन्
शरीरे = देहे
अनेकधा= बहुधा
प्रविभक्तम् = पृथक्भूतम्
कृत्स्नम् = सकलम्
जगत् = भुवनम्
एकस्थम् = एकस्मिन् स्थितम्
अपश्यत् = दृष्टवान् ।

अर्थः सम्पादयतु

तदा अर्जुनः हरेः तस्मिन् शरीरे बहुधा विभक्तं सकलमपि जगत् एकत्रैव वर्तमानम् अपश्यत् ।

सम्बद्धसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु