यथा नदीनां बहवो...
(११.२८ यथा नदीनां बहवो... इत्यस्मात् पुनर्निर्दिष्टम्)
श्लोकः
सम्पादयतुअयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- यथा नदीनां बहवोऽम्बुवेगाः समुद्रमेवाभिमुखा द्रवन्ति ।
- तथा तवामी नरलोकवीरा विशन्ति वक्त्राण्यभिविज्वलन्ति ॥ २८ ॥
अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य अष्टाविंशतितमः(२८) श्लोकः ।
पदच्छेदः
सम्पादयतुयथा नदीनां बहवः अम्बुवेगाः समुद्रम् एव अभिमुखाः द्रवन्ति तथा तव अमी नरलोकवीराः विशन्ति वक्त्राणि अभिविज्वलन्ति ॥ २८ ॥
अन्वयः
सम्पादयतुयथा नदीनां बहवः अम्बुवेगाः समुद्रम् एव अभिमुखाः द्रवन्ति तथा अमी नरलोकवीराः अभिविज्वलन्ति तव वक्त्राणि विशन्ति ।
शब्दार्थः
सम्पादयतु- यथा = येन प्रकारेण
- नदीनाम् = स्त्रोतसाम्
- बहवः = असङ्ख्याकाः
- अम्बुवेगाः = जलप्रवाहाः
- समुद्रम् एव = सागरम् एव
- अभिमुखाः = सम्मुखाः सन्तः
- द्रवन्ति = प्रवहन्ति
- तथा = तेन प्रकारेण
- अमी = एते
- नरलोकवीराः = मर्त्यलोकशूराः
- अभिविज्वलन्ति = प्रकाशमानानि
- तव = ते
- वक्त्राणि = मुखानि
- विशन्ति = प्रविशन्ति ।
अर्थः
सम्पादयतुयथा स्रोतसाम् असङ्ख्याकाः जलप्रवाहाः सागरम् एव अभिमुखीभूय प्रविशन्ति तथा एते शूराः प्रकाशमानानि तव मुखानि प्रविशन्ति ।