यथा प्रदीप्तं ज्वलनं...
(११.२९ यथा प्रदीप्तं ज्वलनं... इत्यस्मात् पुनर्निर्दिष्टम्)
श्लोकः
सम्पादयतुअयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- यथा प्रदीप्तं ज्वलनं पतङ्गा विशन्ति नाशाय समृद्धवेगाः ।
- तथैव नाशाय विशन्ति लोकास्तवापि वक्त्राणि समृद्धवेगाः ॥ २९ ॥
अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य नवविंशतितमः(२९) श्लोकः ।
पदच्छेदः
सम्पादयतुयथा प्रदीप्तं ज्वलनं पतङ्गा विशन्ति नाशाय समृद्धवेगाः तथा एव नाशाय विशन्ति लोकाः तव अपि वक्त्राणि समृद्धवेगाः ॥ २९ ॥
अन्वयः
सम्पादयतुयथा समृद्धवेगाः पतङ्गाः प्रदीप्तं ज्वलनं नाशाय विशन्ति तथा एव समृद्धवेगाः लोकाः तव वक्त्राणि अपि नाशाय विशन्ति ।
शब्दार्थः
सम्पादयतु- यथा = येन प्रकारेण
- समृद्धवेगाः = तीव्ररयाः
- पतङ्गा = शलभाः
- प्रदीप्तम् = ज्वलितम्
- ज्वलनम् = अग्निम्
- नाशाय = विनाशाय
- विशन्ति = प्रविशन्ति
- तथा एव = तेन प्रकारेण एव
- समृद्धवेगाः = तीव्ररयाः
- लोकाः = प्राणिनः
- तव वक्त्राणि अपि = तव मुखानि अपि
- नाशाय =विनाशाय
- विशन्ति = प्रविशन्ति ।
अर्थः
सम्पादयतुयथा तीव्रगतयः पताः ज्वलितम् अग्निम् आत्मविनाशाय प्रविशन्ति तथा एव तीव्रगमनाः प्राणिनः तव मुखानि स्वविनाशाय एव प्रविशन्ति ।