तस्मात्त्वमुत्तिष्ठ यशो...
(११.३३ तस्मात्त्वमुत्थिष्ठ... इत्यस्मात् पुनर्निर्दिष्टम्)
श्लोकः
सम्पादयतुअयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- तस्मात्त्वमुत्ति यशो लभस्व जित्वा शत्रून्भुङ्क्ष्व राज्यं समृद्धम् ।
- मयैवैते निहताः पूर्वमेव निमित्तमात्रं भव सव्यसाचिन् ॥ ३३ ॥
अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य त्रयस्त्रिंशत्तमः(३३) श्लोकः ।
पदच्छेदः
सम्पादयतुतस्मात् त्वम् उत्तिष्ठ यशो लभस्व जित्वा शत्रून् भुङ्क्ष्व राज्यं समृद्धम् मया एव एते निहताः पूर्वम् एव निमित्तमात्रं भव सव्यसाचिन् ॥ ३३ ॥
अन्वयः
सम्पादयतुसव्यसाचिन् ! तस्मात् त्वम् उत्तिष्ठ, यशः लभस्व । शत्रून् जित्वा समृद्धं राज्यं भुङ्क्ष्व । एते मया पूर्वं निहताः । निमित्तमात्रं भव ।
शब्दार्थः
सम्पादयतु- सव्यसाचिन् = सव्येन हस्तेनापि शरप्रयोगे निपुण !
- तस्मात् = ततः हेतोः
- उत्तिष्ठ = सज्जस्व
- यशः = कीर्तिम्
- लभस्व = प्राप्नुहि
- शत्रून् = अरीन्
- जित्वा = विजित्य
- समृद्धम् = निष्कण्टकम्
- राज्यम् = आधिपत्यम्
- भुङ्क्ष्व = अनुभव
- एते = इमे
- पूर्वम् एव = प्रथममेव
- निहताः = विनाशिताः
- निमित्तमात्रम् = हेतुमात्रम्
- भव = जायस्व ।
अर्थः
सम्पादयतुतस्मात् हे अर्जुन ! त्वम् उत्तिष्ठ, कीर्तिं प्राप्नुहि । अरीन् विजित्य निष्कण्टकम् आधिपत्यम् अनुभव । एते मया इतः पूर्वमेव विनाशिताः । त्वं निमित्तमात्रं भव ।