द्रोणं च भीष्मं च जय...

(११.३४ द्रोणं च भीष्मं च... इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः सम्पादयतु

 
गीतोपदेशः
द्रोणं च भीष्मं च जयद्रथं च कर्णं तथान्यानपि योधवीरान् ।
मया हतांस्त्वं जहि मा व्यथिष्ठा युध्यस्व जेतासि रणे सपत्नान् ॥ ३४ ॥

अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य चतुस्त्रिंशत्तमः(३४) श्लोकः ।

पदच्छेदः सम्पादयतु

द्रोणं च भीष्मं च जयद्रथं च कर्णं तथा अन्यान् अपि योधवीरान् मया हतान् त्वं जहि मा अव्यथिष्ठाः युध्यस्व जेतासि रणे सपत्नान् ॥ ३४ ॥

अन्वयः सम्पादयतु

द्रोणं च भीष्मं च जयद्रथं च कर्णं तथा अन्यान् अपि योधवीरान् मया हतान् त्वं जहि । मा व्यथिष्ठा: । युध्यस्व । रणे सपत्नान् जेतासि ।

शब्दार्थः सम्पादयतु

अन्यान् अपि = इतरान् अपि
द्रोणं च भीष्मं च = द्रोणं भीष्मं च
जयद्रथं च कर्णं च = जयद्रथं कर्णं च
तथा = तथा
योधवीरान् = शत्रून्
हतान् = निहतान्
जहि = नाशय
मा व्यथिष्ठा = मा खेदं प्राप्नुहि
युध्यस्व = युद्धं कुरु
रणे = युद्धे
सपत्नान् = शत्रून्
जेतासि = जेष्यसि ।

अर्थः सम्पादयतु

द्रोणः भीष्मः जयद्रथः कर्णः तथा अन्ये सर्वे अपि मया पूर्वमेव निहताः । मया निहतानेव त्वं नाशय । व्यथां मा कुरु । युद्धे प्रवर्तस्व । रणे शत्रून् जेष्यसि ।

सम्बद्धसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=द्रोणं_च_भीष्मं_च_जय...&oldid=418612" इत्यस्माद् प्रतिप्राप्तम्