एतच्छ्रुत्वा वचनं...
(११.३५ एतच्छ्र्त्वा वचनं... इत्यस्मात् पुनर्निर्दिष्टम्)
श्लोकः
सम्पादयतुअयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
सञ्जय उचाच -
- एतच्छ्रुत्वा वचनं केशवस्य कृताञ्जलिर्वेपमानः किरीटी ।
- नमस्कृत्वा भूय एवाह कृष्णं सगद्गदं भीतभीतः प्रणम्य ॥ ३५ ॥
अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य पञ्चत्रिंशत्तमः(३५) श्लोकः ।
पदच्छेदः
सम्पादयतुएतत् श्रुत्वा वचनं केशवस्य कृताञ्जलिः वेपमानः किरीटी नमस्कृत्वा भूयः एव आह कृष्णं सगद्गदं भीतभीतः प्रणम्य ॥ ३५ ॥
अन्वयः
सम्पादयतुकिरीटी केशवस्य एतत् वचनं श्रुत्वा कृताञ्जलिः वेपमानः भीतभीतः कृष्णं नमस्कृत्वा सगद्गदं भूयः एव प्रणम्य आह ।
शब्दार्थः
सम्पादयतु- किरीटी = अर्जुनः
- केशवस्य = श्रीकृष्णस्य
- एतत् = इदम्
- वचनम् = वाक्यम्
- श्रुत्वा = आकर्ण्य
- कृताञ्जलिः = मुकुलितकरः
- वेपमानः = कम्पमानः
- भीतभीतः = भयसहितः
- कृष्णम् = श्रीकृष्णम्
- नमस्कृत्वा = प्रणम्य
- सगद्गदम् = निरुद्धकण्ठम्
- भूयः एव = पुनरपि
- प्रणम्य = नमस्कृत्वा
- आह = उवाच ।
अर्थः
सम्पादयतुश्रीकृष्णस्य एतत् वाक्यं श्रुत्वा अर्जुनः मुकुलितकरः कम्पमानः भयसहितश्च सन् कृष्णं नमस्कृत्य गद्गदितकण्ठः पुनरपि प्रणम्य अवोचत् ।