पितासि लोकस्य...
(११.४३ पितासि लोकस्य... इत्यस्मात् पुनर्निर्दिष्टम्)
श्लोकः
सम्पादयतुअयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- पितासि लोकस्य चराचरस्य त्वमस्य पूज्यश्च गुरुर्गरीयान् ।
- न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यो लोकत्रयेऽप्यप्रतिमप्रभाव ॥ ४३ ॥
अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य त्रिचत्वारिंशत्तमह्ः (४३) श्लोकः ।
पदच्छेदः
सम्पादयतुपिता असि लोकस्य चराचरस्य त्वम् अस्य पूज्यः च गुरुः गरीयान् न त्वत्समः अस्ति अभ्यधिकः कुतः अन्यः लोकत्रये अपि अप्रतिमप्रभाव ॥ ४३ ॥
अन्वयः
सम्पादयतुत्वं चराचरस्य अस्य लोकस्य पिता असि पूज्यः गुरुः गरीयान् च । अप्रतिमप्रभाव ! लोकत्रये अपि त्वत्समः न अस्ति अभ्यधिकः अन्यः कुतः ।
शब्दार्थः
सम्पादयतु- त्वम् = भवान्
- चराचरस्य = स्थावरजमस्य
- अस्य = एतस्य जगतः
- पिता असि= जनकः असि
- पूज्यः = अर्च्यः
- गुरुः च = गुरुः शास्त्रोपदेष्टा
- गरीयान् = गुरुतरः
- अप्रतिमप्रभाव = अप्रमेयमहिमन् !
- लोकत्रये अपि = भुवनत्रये अपि
- त्वत्समः = भवत्सदृशः
- न अस्ति = न विद्यते
- अभ्यधिकः = अतिशयानस्तु
- अन्यः = परः
- कुतः = कथम् ?
अर्थः
सम्पादयतुभवान् स्थावरजमस्य एतस्य लोकस्य जनकः असि । अर्च्यः आचार्यः गुरुतरः च असि । अप्रमेयमहिमन् ! भुवनत्रये अपि भवत्सदृशः न विद्यते । कथं पुनः भवतोऽत्यधिकः ?