तस्मात्प्रणम्य प्रणिधाय...

(११.४४ तस्मात्प्रणम्य... इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः सम्पादयतु

 
गीतोपदेशः
तस्मात्प्रणम्य प्रणिधाय कायं प्रसादये त्वामहमीशमीड्यम् ।
पितेव पुत्रस्य सखेव सख्युः प्रियः प्रियायार्हसि देव सोढुम् ॥ ४४ ॥

अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य चतुश्चत्वारिंशत्तमः(४४) श्लोकः ।

पदच्छेदः सम्पादयतु

तस्मात् प्रणम्य प्रणिधाय कायं प्रसादये त्वाम् अहम् ईशम् ईड्यम् पितेव पुत्रस्य सखा इव सख्युः प्रियः प्रियायाः अर्हसि देव सोढुम् ॥ ४४ ॥

अन्वयः सम्पादयतु

देव तस्मात् प्रणम्य कायं प्रणिधाय ईड्यम् ईशं त्वाम् अहं प्रसादये । पुत्रस्य पिता इव, सख्युः सखा इव, प्रियायाः प्रियः इव सोढुम् अर्हसि ।

शब्दार्थः सम्पादयतु

देव = प्रभो !
तस्मात् = हेतोः
प्रणम्य = नमस्कृत्य
कायम् = शरीरम्
प्रणिधाय = नम्रं कृत्वा
ईड्यम् = स्तुत्यम्
ईशम् = प्रभुम्
त्वां प्रसादये = त्वां प्रसन्नं करोमि
पुत्रस्य = तनयस्य
पिता इव = जनकः इव
सख्युः = सुहृदः
सखा इव = सुहृत् इव
प्रियायाः = प्रेयस्याः
प्रियः = प्रियकरः इव
सोढुम् = क्षन्तुम्
अर्हसि = योग्यः असि ।

अर्थः सम्पादयतु

प्रभो ! तस्मात् नमस्कृत्य शरीरं नम्रं कृत्वा स्तुत्यं प्रभुं त्वाम् अहं प्रसादयामि । पुत्रस्य अपराधम् पिता इव, सुहृदः अपराधं सुहृत् इव, प्रेयस्याः अपराधं प्रियः इव, मम अपराधं क्षन्तुम् अर्हसि ।

सम्बद्धसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु