श्लोकः सम्पादयतु

 
गीतोपदेशः
किरीटिनं गदिनं चक्रहस्तमिच्छामि त्वां द्रष्टुमहं तथैव ।
तेनैव रूपेण चतुर्भुजेन सहस्रबाहो भव विश्वमूर्ते ॥ ४६ ॥

अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य षड्चत्वारिंशत्तमः(४६) श्लोकः ।

पदच्छेदः सम्पादयतु

किरीटिनं गदिनं चक्रहस्तम् इच्छामि त्वां द्रष्टुम् अहं तथा एव तेन एव रूपेण चतुर्भुजेन सहस्रबाहो भव विश्वमूर्ते ॥ ४६ ॥

अन्वयः सम्पादयतु

(हे) सहस्रबाहो ! विश्वमूर्ते अहं किरीटिनं गदिनं चक्रहस्तं त्वां तथा एव द्रष्टुम् इच्छामि । चतुर्भुजेन तेन रूपेण एव (उपलक्षितः) भव ।

शब्दार्थः सम्पादयतु

विश्वमूर्ते = विश्वाकार !
अहं किरीटिनम् = अहं मुकुटधारिणम्
गदिनम् = गदाधरम्
चक्रहस्तम् = चक्रपाणिम्
त्वाम् = त्वाम्
तथा एव = तेन एव प्रकारेण
द्रष्टुम् = विलोकितुम्
इच्छामि = अभिलषामि
सहस्रबाहो = सहस्रहस्त !
चतुर्भुजेन = चतुर्हस्तेन
रूपेण एव (उपलक्षितः) = आकारेण एव विशिष्टः
भव = वर्तस्व ।

अर्थः सम्पादयतु

विश्वाकार ! किरीटधारित्वेन गदाधारित्वेन चक्रपाणित्वेन च यत् सौम्यं रूपं पूर्वं मां प्रदर्शितवान् असि तदेव रूपं सम्प्रति द्रष्टुमिच्छामि । हे सहस्रबाहो ! तेनैव रूपेण आविर्भव ।

सम्बद्धसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=११.४६_किरीटिनं_गदिनं...&oldid=418891" इत्यस्माद् प्रतिप्राप्तम्