मा ते व्यथा मा च...

(११.४९ मा ते व्यथा मा... इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः सम्पादयतु

 
गीतोपदेशः
मा ते व्यथा मा च विमूढभावो दृष्ट्वा रूपं घोरमीदृङ्ममेदम् ।
व्यपेतभीः प्रीतमनाः पुनस्त्वं तदेव मे रूपमिदं प्रपश्य ॥ ४९ ॥

अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य नवचत्वारिंशत्तमः(४९) श्लोकः ।

पदच्छेदः सम्पादयतु

मा ते व्यथा मा च विमूढभावः दृष्ट्वा रूपं घोरम् ईदृक् मम इदम् व्यपेतभीः प्रीतमनाः पुनः त्वं तत् एव मे रूपम् इदं प्रपश्य ॥ ४९ ॥

अन्वयः सम्पादयतु

घोरम् ईदृक् मम रूपं दृष्ट्वा ते व्यथा मा, विमूढभावः च मा । त्वं व्यपेतभीः प्रीतमनाः मे तत् एव इदं रूपं पुनः प्रपश्य ।

शब्दार्थः सम्पादयतु

घोरम् = भयरम्
ईदृक् = ईदृशम्
मम इदम् रूपम् = मम एतद्रूपम्
दृष्ट्वा = अवलोक्य
ते = तव
व्यथा मा = भयं मास्तु
विमूढभावः च मा = मूढचित्तत्वं च मास्तु
व्यपेतभीः = अपगतभयः
प्रीतमनाः = सन्तुष्टचित्तः
मे तदेव इदम् = मम स्थितपूर्वमेव तत्
रूपम् = स्वरूपम्
पुनः प्रपश्य = भूयः ईक्षस्व ।

अर्थः सम्पादयतु

भयरम् ईदृशं मम इदं स्वरूपम् अवलोक्य तव भयं मास्तु । त्वम् अपगतभयः सन्तुष्टचित्तः मम स्थितपूर्वं तदेव स्वरूपं पुनः पश्य ।

सम्बद्धसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=मा_ते_व्यथा_मा_च...&oldid=418721" इत्यस्माद् प्रतिप्राप्तम्