दृष्ट्वेदं मानुषं रूपं...
(११.५१ दृष्ट्वेदं मानुषं ... इत्यस्मात् पुनर्निर्दिष्टम्)
श्लोकः
सम्पादयतुअयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
अर्जुन उवाच -
- दृष्ट्वेदं मानुषं रूपं तव सौम्यं जनार्दन ।
- इदानीमस्मि संवृत्तः सचेताः प्रकृतिं गतः ॥ ५१ ॥
अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य एकपञ्चाशत्तमः(५१) श्लोकः ।
पदच्छेदः
सम्पादयतुदृष्ट्वा इदं मानुषं रूपं तव सौम्यं जनार्दन इदानीं अस्मि संवृत्तः सचेताः प्रकृतिं गतः ॥ ५१ ॥
अन्वयः
सम्पादयतुजनार्दन ! सौम्यं मानुषम् इदं तव रूपं दृष्ट्वा इदानीं प्रकृतिं गतः सचेताः संवृत्तः अस्मि ।
शब्दार्थः
सम्पादयतु- जनार्दन = श्रीकृष्ण !
- सौम्यम् = प्रसन्नम्
- मानुषम् = मानवीयम्
- इदम् = एतत्
- तव रूपम् = ते रूपम्
- दृष्ट्वा = अवलोक्य
- इदानीम् = अधुना
- प्रकृतिम् = पूर्वावस्थाम्
- गतः = प्राप्तः
- सचेताः = प्रसन्नमनाः
- संवृत्तः = सञ्जातः
- अस्मि = भवामि ।
अर्थः
सम्पादयतुश्रीकृष्ण ! प्रसन्नं मानवीयम् एतत् तव रूपं दृष्ट्वा अधुना प्रसन्नमनाः प्रकृतिस्थः च सञ्जातः अस्मि ।