नाहं वेदैर्न तपसा...

(११.५३ नाहं वेदैर्न तपसा... इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः सम्पादयतु

 
गीतोपदेशः
नाहं वेदैर्न तपसा न दानेन न चेज्यया ।
शक्य एवंविधो द्रष्टुं दृष्टवानसि मां यथा ॥ ५३ ॥

अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य त्रिपञ्चाशत्तमः(५३) श्लोकः ।

पदच्छेदः सम्पादयतु

न अहं वेदैः न तपसा न दानेन न च इज्यया शक्य: एवंविधः द्रष्टुं दृष्टवान् असि मां यथा ॥ ५३ ॥

अन्वयः सम्पादयतु

अहम् एवंविधः वेदैः न, तपसा न, दानेन न, इज्यया च न द्रष्टुं शक्यः यथा मां दृष्टवान् असि ।

शब्दार्थः सम्पादयतु

वेदैः = निगमैः
एवंविधः = एवंप्रकारः अहम्
द्रष्टुम् = विलोकितुम्
न शक्यः = न अर्हः
तपसा न = तपश्चर्यया न शक्यः
दानेन = वितरणेन न
इज्यया च = यज्ञेन अपि न
यथा = येन प्रकारेण
माम् = माम्
दृष्टवान् असि = विलोकितवान् असि ।

अर्थः सम्पादयतु

अहम् एवंप्रकारः निगमैः तपसा वितरणेन यज्ञेन च द्रष्टुं न शक्यः येन प्रकारेण मां दृष्टवान् असि ।

सम्बद्धसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=नाहं_वेदैर्न_तपसा...&oldid=418640" इत्यस्माद् प्रतिप्राप्तम्