पुरुषः प्रकृतिस्थो हि...
श्लोकः
सम्पादयतुअयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- पुरुषः प्रकृतिस्थो हि भुङ्क्तेप्रकृतिजान्गुणान् ।
- कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मसु ॥ २१ ॥
अयं भगवद्गीतायाः त्रयोदशोध्यायस्य क्षेत्रक्षेत्रज्ञविभागयोगस्य एकविंशतितमः(२१) श्लोकः ।
पदच्छेदः
सम्पादयतुपुरुषः प्रकृतिस्थः हि भुङ्क्ते प्रकृतिजान् गुणान् कारणं गुणसङ्गः अस्य सदसद्योनिजन्मसु ॥ २१ ॥
अन्वयः
सम्पादयतुपुरुषः हि प्रकृतिस्थः प्रकृतिजान्गुणान् भुङ्क्ते अस्य सदसद्योनिजन्मसु गुणसङ्गः कारणम् ।
शब्दार्थः
सम्पादयतु- पुरुषः = जीवः
- प्रकृतिस्थः = प्रकृतिपरिणामे देहे स्थितः
- प्रकृतिजान् = प्रकृतिसम्भवान्
- गुणान् = सुखदुःखादीन्
- भुङ्क्ते = अनुभवति
- सदसद्योनिजन्मसु = साध्वसाधुयोनिजननेषु
- गुणसङ्गः = शब्दादिषु विषयेषु तज्ज्ञानसाधनेषु इन्द्रियेषु वा आसक्तिः ।
अर्थः
सम्पादयतुशरीरं प्रकृतेः परिणामः । तदभिन्नतया स्थितः पुरुषः प्रकृतिस्थसत्त्वादिगुणानां कार्यभूतान् सुखदुःखादीन् अनुभवति । सः कदाचित् देवादिषु साधुयोनिषु जातः सत्त्वगुणस्य फलं सुखम् अनुभवति। कदाचित् पश्वादिषु असाधुयोनिषु जातः तमोगुणस्य फलं दुःखम् अनुभवति । कदाचित् साध्वसाधु-योनिषु मनुष्येषु जातः रजोगुणफलं सुखदुःखमिश्रम् अनुभवति । एवं सत्त्वादिगुणस्य सुखदुःखमोहानाम् अनुभवे कारणं तस्य पुरुषस्य शब्दादिषु विषयेषु तज्ज्ञानसाधनेषु वा इन्द्रियेषु आसक्तिः । सा आसक्तिः अत्र गुणसशब्देन उच्यते ।