य एवं वेत्ति पुरुषं...
(१३.२३ य एवं वेत्ति पुरुषं. इत्यस्मात् पुनर्निर्दिष्टम्)
श्लोकः
सम्पादयतुअयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- य एवं वेत्ति पुरुषं प्रकृतिं च गुणैः सह ।
- सर्वथा वर्तमानोऽपि न स भूयोऽभिजायते ॥ २३ ॥
अयं भगवद्गीतायाः त्रयोदशोध्यायस्य क्षेत्रक्षेत्रज्ञविभागयोगस्य त्रयोविंशतितमः(२३) श्लोकः ।
पदच्छेदः
सम्पादयतुयः एवं वेत्ति पुरुषं प्रकृतिं च गुणैः सह सर्वथा वर्तमानः अपि न सः भूयः अभिजायते ॥ २३ ॥
अन्वयः
सम्पादयतुयः एवं गुणैः सह पुरुषं प्रकृतिं च वेत्ति सः सर्वथा वर्तमानः अपि भूयः न अभिजायते ।
शब्दार्थः
सम्पादयतु- गुणैः सह = गुणैः साकम्
- पुरुषम् = जीवम्
- प्रकृतिं च = प्रधानम् अपि
- वेत्ति = जानाति
- सर्वथा = सर्वप्रकारेण
- वर्तमानः अपि = विद्यमानः अपि
- भूयः = पुनः
- न अभिजायते = न उत्पद्यते ।
अर्थः
सम्पादयतुयः पुरुषः पूर्वोक्तप्रकारेण क्रमेण गुणान्, जीवम्, प्रकृतिं च जानाति सः देहे सम्प्रति विद्यमानोऽपि पुनः जन्म न प्राप्नोति ।