अन्ये त्वेवमजानन्तः...
(१३.२५ अन्ये त्वेवमजां. इत्यस्मात् पुनर्निर्दिष्टम्)
श्लोकः
सम्पादयतुअयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- अन्ये त्वेवमजानन्तः श्रुत्वान्येभ्य उपासते ।
- तेऽपि चातितरन्त्येव मृत्युं श्रुतिपरायणाः ॥ २५ ॥
अयं भगवद्गीतायाः त्रयोदशोध्यायस्य क्षेत्रक्षेत्रज्ञविभागयोगस्य पञ्चविंशतितमः(२५) श्लोकः ।
पदच्छेदः
सम्पादयतुअन्ये तु एवम् अजानन्तः श्रुत्वा अन्येभ्यः उपासते ते अपि च अतितरन्ति एव मृत्युं श्रुतिपरायणाः ॥ २५ ॥
अन्वयः
सम्पादयतुअन्ये तु एवम् अजानन्तः अन्येभ्यः श्रुत्वा उपासते । श्रुतिपरायणाः ते अपि च मृत्युम् अतितरन्ति एव ।
शब्दार्थः
सम्पादयतु- अजानन्तः = अविदन्तः
- अन्येभ्यः = आचार्येभ्यः
- उपासते = ध्यायन्ति
- श्रुतिपरायणाः = श्रवणासक्ताः
- अतितरन्ति = लङ्घयन्ति ।
अर्थः
सम्पादयतुअन्ये तु गुणान् जीवं प्रकृतिं च पूर्वोक्तरीत्या ज्ञातुम् अशक्नुवन्तः अपि आचार्येभ्यः तत् विज्ञाय तदुपदेशस्य च श्रवणे नितरामासक्ताः मृत्युरूपमिमं संसारं शनैः शनैः तरन्ति, न शीघ्रम् ।