प्रकृत्यैव च कर्माणि...

(१३.२९ प्रकृत्यैव च . इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः सम्पादयतु

 
गीतोपदेशः
प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः ।
यः पश्यति तथात्मानमकर्तारं स पश्यति ॥ २९ ॥

अयं भगवद्गीतायाः त्रयोदशोध्यायस्य क्षेत्रक्षेत्रज्ञविभागयोगस्य नवविंशतितमः(२९) श्लोकः ।

पदच्छेदः सम्पादयतु

प्रकृत्या एव च कर्माणि क्रियमाणानि सर्वशः यः पश्यति तथा आत्मानम् अकर्तारं सः पश्यति ॥ २९ ॥

अन्वयः सम्पादयतु

यः सर्वशः कर्माणि प्रकृत्या एव च क्रियमाणानि पश्यति तथा आत्मानम् अकर्तारं (पश्यति) स: पश्यति ।

शब्दार्थः सम्पादयतु

प्रकृत्या एव च = मायया एव च
सर्वशः = सर्वप्रकारेण
क्रियमाणानि = निर्वर्त्यमानानि ।

अर्थः सम्पादयतु

शरीरेन्द्रियसङ्घातरूपा इयं प्रकृतिरेव कर्माणि करोति न तु आत्मा । तस्य तु प्रकृतिसम्बन्धात् केवलं कर्तृत्वाभिमानः न तु पारमार्थिकं कर्तृत्वम् इति यः जानाति स एव सम्यक् जानाति, नान्यः ।

सम्बद्धसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु