यथा प्रकाशयत्येकः...
(१३.३३ यथा प्रकाशयति. इत्यस्मात् पुनर्निर्दिष्टम्)
श्लोकः
सम्पादयतुअयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः ।
- क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत ॥ ३३ ॥
अयं भगवद्गीतायाः त्रयोदशोध्यायस्य क्षेत्रक्षेत्रज्ञविभागयोगस्य त्रयस्त्रिंशत्तमः(३३) श्लोकः ।
पदच्छेदः
सम्पादयतुयथा प्रकाशयति एकः कृत्स्नं लोकम् इमं रविः क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत ॥ ३३ ॥
अन्वयः
सम्पादयतुभारत ! एकः रविः कृत्स्नम् इमं लोकं यथा प्रकाशयति तथा क्षेत्री कृत्स्नं क्षेत्रं प्रकाशयति ।
शब्दार्थः
सम्पादयतु- कृत्स्नम् = समस्तम्
- लोकम् = भुवनम्
- क्षेत्री = परमात्मा
- क्षेत्रम् = शरीरम्
- प्रकाशयति = दीपयति ।
अर्थः
सम्पादयतुअर्जुन ! यथा एकः रविः जगद्गतानि नानाविधानि वस्तूनि प्रकाशयति प्रकाशयन् च न तेदेन भेदं गच्छति तथा अयम् आत्मा अपि नानाविधानि शरीराणि प्रकाशयति प्रकाशयन् च न तेदेन भेदं गच्छति ।