यतन्तो योगिनश्चैनं...

भगवद्गीतायाः श्लोकः १५.११
(१५.११ यतन्तो योगिनश्चौनं…. इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः सम्पादयतु

 
गीतोपदेशः
यतन्तो योगिनश्चैनं पश्यन्त्यात्मन्यवस्थितम् ।
यतन्तोऽप्यकृतात्मानो नैनं पश्यन्त्यचेतसः ॥ ११ ॥

अयं भगवद्गीतायाः पञ्चदशोऽध्यायस्य पुरुषोत्तमयोगस्य एकादशः(११) श्लोकः ।

पदच्छेदः सम्पादयतु

यतन्तः योगिनः च एनं पश्यन्ति आत्मनि अवस्थितम् यतन्तः अपि अकृतात्मानः न एनं पश्यन्ति अचेतसः ॥ ११ ॥

अन्वयः सम्पादयतु

यतन्तः योगिनः च एनम् आत्मनि अवस्थितं पश्यन्ति । यतन्तः अपि अकृतात्मानः अचेतसः एनं न पश्यन्ति ।

शब्दार्थः सम्पादयतु

यतन्तः = प्रयत्नवन्तः
योगिनः = समाहितचित्ताः
अवस्थितम् = विद्यमानम्
अकृतात्मानः = असंस्कृतात्मानः
अचेतसः = अविवेकिनः ।

अर्थः सम्पादयतु

ध्यानादिभिः सततं प्रयतमाना एव ज्ञानिनः देहे वर्तमानमिमं द्रष्टुं शक्नुवन्ति । किन्तु शास्त्रदिभिः प्रयतमाना अपि कश्मलचित्ताः देहे वर्तमानमपि इमं द्रष्टुं न शक्नुवन्ति ।

सम्बद्धसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=यतन्तो_योगिनश्चैनं...&oldid=418743" इत्यस्माद् प्रतिप्राप्तम्