न तद्भासयते सूर्यो...

भगवद्गीतायाः श्लोकः १५.६
(१५.६ न तद्भासयते सूर्यो…. इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः सम्पादयतु

 
गीतोपदेशः
न तद्भासयते सूर्यो न शशाङ्को न पावकः ।
यद्गत्वा न निवर्तन्ते तद्धाम परमं मम ॥ ६ ॥

अयं भगवद्गीतायाः पञ्चदशोऽध्यायस्य पुरुषोत्तमयोगस्य षष्टः(६) श्लोकः ।

पदच्छेदः सम्पादयतु

न तत् भासयते सूर्यः न शशाङ्कः न पावकः यत् गत्वा न निवर्तन्ते तत् धाम परमं मम ॥ ५ ॥

अन्वयः सम्पादयतु

सूर्यः तत् न भासयते, न शशाङ्कः, न पावकः यत् गत्वा न निवर्तन्ते तत् मम परमं धाम ।

शब्दार्थः सम्पादयतु

भासयते = प्रकाशयति
शशाङ्कः = चन्द्रः
पावकः = अग्निः
धाम = स्थानम् ।

अर्थः सम्पादयतु

यत् पदं न सूर्यः प्रकाशयितुं शक्नोति, न चन्द्रः, नापि अग्निः यत् प्राप्तश्च पुरुषः पुनः न संसारक्लेशम् अनुभवति तदेव मम श्रेष्ठं स्थानम् ।

सम्बद्धसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=न_तद्भासयते_सूर्यो...&oldid=418625" इत्यस्माद् प्रतिप्राप्तम्