ममैवांशो जीवलोके...

भगवद्गीतायाः श्लोकः १५.७
(१५.७ ममैवांशो जीवलोके…. इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकःसंपादित करें

 
गीतोपदेशः
ममैवांशो जीवलोके जीवभूतः सनातनः ॥
मनःषष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति ॥ ७ ॥

अयं भगवद्गीतायाः पञ्चदशोऽध्यायस्य पुरुषोत्तमयोगस्य सप्तमः(७) श्लोकः ।

पदच्छेदःसंपादित करें

मम एव आंशः जीवलोके जीवभूतः सनातनः मनःषष्ठानि इन्द्रियाणि प्रकृतिस्थानि कर्षति ॥ ७ ॥

अन्वयःसंपादित करें

जीवलोके मम सनातनः अंशः एव जीवभूतः । प्रकृतिस्थानि मनःषष्ठानि इन्द्रियाणि कर्षति ।

शब्दार्थःसंपादित करें

जीवलोके = संसारे
सनातनः = चिरन्तनः
अंशः = अवयवः
जीवभृतः = जीवत्वं प्राप्तः
प्रकृतिस्थानि = प्रकृतौ विद्यमानानि
मनःषष्ठानि = चित्तषष्ठानि
कर्षति = आकर्षति ।

अर्थःसंपादित करें

योऽयं संसारः तत्र जीवः ममैव चिरन्तनः कश्चित् अवयवः । यद्यपि सुप्तौ प्रलये च तस्य मयि लयो वर्तते तथापि मायाशालित्वात् सगुणे एव मयि लयः, न तु मायासम्बन्धराहित्यात् निर्विशेषे ब्रह्मणि । ततश्च सुषुप्तौ प्रलये वा समाप्ते पुनः संसाराय निर्गच्छन् सः कर्मवशात् शरीरं प्राप्नुवन् भोगार्थं मनःप्रधानानि सर्वाण्यपि इन्द्रियाणि प्राप्नोति ।

सम्बद्धसम्पर्कतन्तुःसंपादित करें

सम्बद्धाः लेखाःसंपादित करें

"https://sa.wikipedia.org/w/index.php?title=ममैवांशो_जीवलोके...&oldid=418709" इत्यस्माद् प्रतिप्राप्तम्