काममाश्रित्य दुष्पूरं...
(१६.१० काममाश्रित्य इत्यस्मात् पुनर्निर्दिष्टम्)
श्लोकः
सम्पादयतुअयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- काममाश्रित्य दुष्पूरं दम्भमानमदान्विताः ।
- मोहाद् गृहीत्वाऽसद्ग्राहान्प्रवर्तन्तेऽशुचिव्रताः ॥ १० ॥
अयं भगवद्गीतायाः षोडशोध्यायस्य दैवासुरसम्पद्विभागयोगस्य दशमः(१०) श्लोकः ।
पदच्छेदः
सम्पादयतुकामम् आश्रित्य दुष्पूरं दम्भमानमदान्विताः मोहाद् गृहीत्वा असद्ग्राहान् प्रवर्तन्ते अशुचिव्रताः ॥
अन्वयः
सम्पादयतुदुष्पूरं कामम् आश्रित्य दम्भमानमदान्विताः मोहात् असद्ग्राहान् गृहीत्वा अशुचिव्रताः प्रवर्तन्ते ।
शब्दार्थः
सम्पादयतु- दुष्पूरम् = अशक्यपूरणम्
- कामम् = इच्छाविशेषम्
- आश्रित्य = अवलम्ब्य
- मोहात् = अविवेकात्
- दम्भमानमदान्विताः = दम्भाभिमानगर्वसहिताः
- असद्ग्राहान् = दुष्टनिश्चयान्
- अशुचिव्रताः = अशुद्धकर्माणः
- प्रवर्तन्ते = प्रवृत्ताः भवन्ति ।
अर्थः
सम्पादयतुते हि दम्भादिभिः समन्विताः गर्हितं व्रतं चरन्तश्च अमितं विषयाभिलाषम् आश्रित्य अनर्थकरान् निर्णयान् विधाय जगतः नाशाय प्रवर्तन्ते ।