अनेकचित्तविभ्रान्ता...
श्लोकःसंपादित करें
अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- अनेकचित्तविभ्रान्ता मोहजालसमावृताः ।
- प्रसक्ताः कामभोगेषु पतन्ति नरकेऽशुचौ ॥ १६ ॥
अयं भगवद्गीतायाः षोडशोध्यायस्य दैवासुरसम्पद्विभागयोगस्य षोडशः(१६) श्लोकः ।
पदच्छेदःसंपादित करें
अनेकचित्तविभ्रान्ताः मोहजालसमावृताः प्रसक्ताः कामभोगेषु पतन्ति नरके अशुचौ ॥ १६ ॥
अन्वयःसंपादित करें
अद्य इदं मया लब्धम्, इमं मनोरथं प्राप्स्ये, इदं धनम् अस्ति, इदम् अपि मे पुनः भविष्यति, असौ शत्रुः मया हतः, अपरान् अपि हनिष्ये । अहम् ईश्वरः, अहं भोगी, अहं सिद्धः बलवान् सुखी । आढ्यः अभिजनवान् अस्मि, मया सदृशः अन्यः कः अस्ति ? यक्ष्ये, दास्यामि, मोदिष्ये इति अज्ञानविमोहिताः अनेकचित्तविभ्रान्ताः मोहजालसमावृताः कामभोगेषु प्रसक्ताः अशुचौ नरके पतन्ति ।
शब्दार्थःसंपादित करें
- मनोरथम् = अभीष्टम्
- प्राप्स्ये = लप्स्ये
- हतः = निहतः
- हनिष्ये = नाशयिष्यामि
- ईश्वरः = प्रभुः
- भोगी = भोगसाधनवान्
- सिद्धः = कृतकृत्यः
- बलवान् = बलयुक्तः
- आढ्यः = धनी
- अभिजनवान् = सत्कुलजातः
- यक्ष्ये = यज्ञं करिष्ये
- दास्यामि = वितरिष्यामि
- मोदिष्ये = हर्षं प्राप्स्यामि
- अज्ञानविमोहिताः = अविवेकभ्रान्ताः
- अनेकचित्तविभ्रान्ताः = विविधमनोविभ्र्रममोहिताः
- मोहजालसमावृताः = अविवेकजालसहिताः
- कामभोगेषु = विषयानुभवेषु
- प्रसक्ताः = अत्यन्तमासक्ताः
- अशुचौ = अपवित्रे
- नरके = नरकलोके ।
अर्थःसंपादित करें
ते हि इदं धनं मया अद्य प्राप्तम् इति, तच्च धनम् अचिरादेव प्राप्स्यामि इति, इदं धनम् इदानीमस्ति इति,तच्च धनं मम अचिरादेव भविष्यति इति, शत्रुम् इमम् अद्य मारितवान् अन्यानपि शत्रून् अचिरादेव मारयिष्यामि इति, अहमेव लोकस्य नियामकः अन्यो नियामको नास्ति इति, अहं सर्वैः सुखसाधनैः उपेतः इति, अहं कृतकृत्यः इति, अहमेव बलवान् सुखी चेति, अहं धनिकः इति, अहं सत्कुल- जातः इति, एतादृशस्य मम अन्यः सदृशो नास्ति इति, अहं यज्ञं करिष्यामि इति, अहं दानं करिष्यामि इति, अहं सन्तोषं प्राप्स्यामि’ इति च स्वच्छन्दं कथयन्तः अविवेकेन भ्रान्ताः, नानाविषयेषु मनसः सञ्चारात् मूढाः, रागरूपजालेन आवृताः, विषयोपभोगे आसक्ताः च अनर्थकारिणि नरके निपतन्ति।