यः शास्त्रविधिमुत्सृज्य...
(१६.२३ यः शास्त्रविधिम् इत्यस्मात् पुनर्निर्दिष्टम्)
श्लोकः
सम्पादयतुअयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- यः शास्त्रविधिमुत्सृज्य वर्तते कामकारतः ।
- न स सिद्धिमवाप्नोति न सुखं न परां गतिम् ॥ २३ ॥
अयं भगवद्गीतायाः षोडशोध्यायस्य दैवासुरसम्पद्विभागयोगस्य त्रयोविंशतितमः(२३) श्लोकः ।
पदच्छेदः
सम्पादयतुयः शास्त्रविधिम् उत्सृज्य वर्तते कामकारतः न सः सिद्धिम् अवाप्नोति न सुखं न परां गतिम् ॥
अन्वयः
सम्पादयतुयः शास्त्रविधिम् उत्सृज्य कामकारतः वर्तते सः सिद्धिं न अवाप्नोति, न सुखम्, न परां गतिम् ।
शब्दार्थः
सम्पादयतु- शास्त्रविधिम् = शास्त्रपद्धतिम्
- उत्सृज्य = परित्यज्य
- कामकारतः = स्वच्छन्दाचरणेन
- सिद्धिम् = कार्यसिद्धिम्
- न अवाप्नोति = न लभते ।
अर्थः
सम्पादयतुयः खलु पुरुषः शास्त्रसम्मतं मार्गं विहाय स्वेच्छया सन्ततम् अमार्गेणैव सञ्चरति तस्य कार्यसिद्धिः न भवति, न सुखम्, नापि मोक्षः । सः अत्रैव संसारे चिरं पीडाम् अनुभवति ।