तेजः क्षमा धृतिः शौचम्...

(१६.३ तेजः क्षमा धृतिः इत्यस्मात् पुनर्निर्दिष्टम्)


 
गीतोपदेशः
तेजः क्षमा धृतिः शौचमद्रोहो नातिमानिता ।
भवन्ति सम्पदं दैवीमभिजातस्य भारत ॥ ३ ॥

अयं भगवद्गीतायाः षोडशोध्यायस्य दैवासुरसम्पद्विभागयोगस्य तृतीयः(३) श्लोकः ।

पदच्छेदः

सम्पादयतु

तेजः क्षमा धृतिः शौचम् अद्रोहः न अतिमानिता भवन्ति सम्पदं दैवीम् अभिजातस्य भारत ॥

भारत ! दैवीं सम्पदम् अभिजातस्य अभयं सत्त्वसंशुद्धिः ज्ञानयोगव्यवस्थितिः दानं दमः च यज्ञः च स्वाध्यायः तपः आर्जवम् अहिंसा सत्यम् अक्रोधः त्यागः शान्तिः अपैशुनम् भूतेषु दया अलोलुप्त्वं मार्दवं ह्रीः अचापलं तेजः क्षमा धृतिः शौचम् अद्रोहः नातिमानिता च भवन्ति ।

शब्दार्थः

सम्पादयतु
तेजः = प्रागल्भ्यम्
क्षमा = सहनम्
धृतिः = धैर्यम्
शौचम् = शुद्धिः
अद्रोहः = अपकारचिन्तनाभावः
न अतिमानिता = अतिमानत्यागः
दैवीम् = देवसम्बन्धिनीम्
सम्पदम् = सम्पत्तिम्
अभिजातस्य = अभिमूखीभूय उत्पन्नस्य ।

भारत ! देवयोग्यां सम्पदम् अभिलक्ष्य जातस्य पुरुषस्य अभीरुत्वम्, अन्तःकरणनैर्मल्यम् आत्मज्ञानोपाये तत्परत्वम्, दानम्, बाह्येन्द्रियनिग्रहः, यागः, वेदाध्ययनम्, तपः, ऋजुत्वम्,पीडावर्जनम्, यथार्थकथनम्, कोपाभावः, भगवते समर्पणम्, उपशमः, अपिशुनत्वम्, प्राणिषु दया, तृष्णाविरहः, अक्रौर्यम्, लज्जा, अचाञ्चल्यम्, प्रागल्भ्यम्, सहनम्, धृतिः, शुद्धिः, अपकारबुद्धेः अभावः, आत्मनि पूज्यत्वबुद्धेः च अभावः इति एते गुणाः भवन्ति ।

सम्बद्धसम्पर्कतन्तुः

सम्पादयतु

सम्बद्धाः लेखाः

सम्पादयतु