द्वौ भूतसर्गौ लोकेऽस्मिन्...

(१६.६ द्वैभूतसर्गौ लोके इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः सम्पादयतु

 
गीतोपदेशः
द्वौ भूतसर्गौ लोकेऽस्मिन्दैव आसुर एव च ।
दैवो विस्तरशः प्रोक्त आसुरं पार्थ मे शृणु ॥ ६ ॥

अयं भगवद्गीतायाः षोडशोध्यायस्य दैवासुरसम्पद्विभागयोगस्य षष्ठः(६) श्लोकः ।

पदच्छेदः सम्पादयतु

द्वौ भूतसर्गौ लोकेऽस्मिन् दैवः आसुरः एव च दैवः विस्तरशः प्रोक्तः आसुरं पार्थ मे शृणु ॥

अन्वयः सम्पादयतु

पार्थ ! अस्मिन् लोके दैवः आसुरः एव च (इति) द्वौ भूतसर्गौ । दैवः विस्तरशः प्रोक्तः आसुरं मे शृणु ।

शब्दार्थः सम्पादयतु

भूतसर्गौ = मनुष्यसृष्टी
दैवः = दिव्यः
आसुरः = राक्षससम्बन्धी ।

अर्थः सम्पादयतु

अर्जुन ! एतस्मिन् लोके दैवगुणसम्पन्नः राक्षसगुणसम्पन्नः च द्विविधौ मनुष्यौ स्तः । तयोः दैवगुण - सम्पन्नस्य मनुष्यस्य अमानित्वादम्भित्वादिना त्रयोदशे अध्याये, गुणातीतत्वेन चतुर्दशे, निर्मान - मोहत्वादिना च पञ्चदशे अध्याये विस्तरेण निरूपणं कृतम् । आसुरगुणसम्पन्नस्य तु निरूपणम् इदानीं क्रियते, शृणु ।

सम्बद्धसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु