असत्यमप्रतिष्ठं ते...

(१६.८ असत्यमप्रतिष्ठं ते इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः सम्पादयतु

 
गीतोपदेशः
असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् ।
अपरस्परसम्भूतं किमन्यत्कामहैतुकम् ॥ ८ ॥

अयं भगवद्गीतायाः षोडशोध्यायस्य दैवासुरसम्पद्विभागयोगस्य अष्टमः(८) श्लोकः ।

पदच्छेदः सम्पादयतु

असत्यम् अप्रतिष्ठं ते जगदाहुः अनीश्वरम् अपरस्परसम्भूतं किम् अन्यत् कामहैतुकम् ॥ ८ ॥

अन्वयः सम्पादयतु

ते जगत् असत्यम् अप्रतिम् अनीश्वरम् आहुः । अपरस्परसम्भूतं कामहैतुकम् अन्यत् किम् इति आहुः ।

शब्दार्थः सम्पादयतु

असत्यम् = सत्यभूतवेदादिहीनम्
अप्रतिम् = अनाधारम्
अनीश्वरम् = नियन्तृरहितम्
आहुः = वर्णयन्ति
अपरस्परसम्भूतम् = स्त्रीपुरुषमिथुनात् जातम्
कामहैतुकम् = कामनिमित्तकम् ।

अर्थः सम्पादयतु

ते जनाः वदन्ति - अस्मिन् लोके सत्यार्थप्रतिपादकाः वेदपुराणादयः न प्रमाणानि । तारतम्ये स्वभावः एव कारणम्, न तु धर्माधर्मौ । लोकेऽस्मिन् न कोऽपि नियामकः अस्ति । स्त्रीपुरुषद्वन्द्वात् एव जगदिदं समुपन्नम् इति कामः एव जगतः उत्पत्तौ कारणम् । कारणान्तरं सर्वथा नास्ति ।

सम्बद्धसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=असत्यमप्रतिष्ठं_ते...&oldid=418444" इत्यस्माद् प्रतिप्राप्तम्