देवद्विजगुरुप्राज्ञ...

(१७.१४ देवद्विजगुरुप्राज्ञ इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः सम्पादयतु

 
गीतोपदेशः
देवद्विजगुरुप्राज्ञपूजनं शौचमार्जवम् ।
ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते ॥ १४ ॥

अयं भगवद्गीतायाः सप्तदशोध्यायस्य श्रद्धात्रयविभागयोगस्य चतुर्दशः(१४) श्लोकः ।

पदच्छेदः सम्पादयतु

देवद्विजगुरुप्राज्ञपूजनं शौचम् आर्जवम् ब्रह्मचर्यम् अहिंसा च शारीरं तपः उच्यते ॥

अन्वयः सम्पादयतु

देवद्विजगुरुप्राज्ञपूजनं शौचम् आर्जवं ब्रह्मचर्यम् अहिंसा च शारीरं तपः उच्यते ।

शब्दार्थः सम्पादयतु

देवद्विजगुरुप्राज्ञपूजनम् = देवस्य द्विजस्य आचार्यस्य पण्डितस्य च सेवनम्
शौचम् = शुद्धिः
आर्जवम् = अवक्रता
ब्रह्मचर्यम् = ब्रह्मव्रतम्
अहिंसा = अपीडनम्
शारीरम् = दैहिकम् ।

अर्थः सम्पादयतु

देवस्य द्विजस्य आचार्यस्य पण्डितस्य च अर्चनम्, शुद्धता, आर्जवम्, ब्रह्मचर्यम्, अहिंसा च शारीरं तपः इत्युच्यते ।

सम्बद्धसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु