अनुद्वेगकरं वाक्यं...

(१७.१५ अनुद्वेगकरं वाक्यं इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः सम्पादयतु

 
गीतोपदेशः
अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत् ।
स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते ॥ १५ ॥

अयं भगवद्गीतायाः सप्तदशोध्यायस्य श्रद्धात्रयविभागयोगस्य पञ्चदशः(१५) श्लोकः ।

पदच्छेदः सम्पादयतु

अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत् स्वाध्यायाभ्यसनं च एव वाङ्मयं तपः उच्यते ॥

अन्वयः सम्पादयतु

अनुद्वेगकरं सत्यं प्रियहितं च यत् वाक्यं स्वाध्यायाभ्यसनं च एव वाङ्मयं तपः उच्यते ।

शब्दार्थः सम्पादयतु

अनुद्वेगकरम् = अक्षोभकरम्
सत्यम् = यथार्थम्
प्रियहितं = इष्टं हितकरं च
वाक्यम् = वचनम्
स्वाध्यायाभ्यसनम् = वेदाभ्यासः
वाङ्मयम् = वाग्रूपम् ।

अर्थः सम्पादयतु

अक्षोभकरं यथार्थम् इष्टं हितकरं च यत् वचनम्, वेदाभ्यासः तथा वाङ्मयं तपः उच्यते ।

सम्बद्धसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=अनुद्वेगकरं_वाक्यं...&oldid=418407" इत्यस्माद् प्रतिप्राप्तम्