यत्तु प्रत्युपकारार्थं...
(१७.२१ यत्तु प्रत्युपकारार्थं इत्यस्मात् पुनर्निर्दिष्टम्)
श्लोकः
सम्पादयतुअयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- यत्तु प्रत्युपकारार्थं फलमुद्दिश्य वा पुनः ।
- दीयते च परिक्लिष्टं तद्दानं राजसं स्मृतम् ॥ २१ ॥
अयं भगवद्गीतायाः सप्तदशोध्यायस्य श्रद्धात्रयविभागयोगस्य एकविंशतितमः(२१)) श्लोकः ।
पदच्छेदः
सम्पादयतुयत् तु प्रत्युपकारार्थं फलम् उद्दिश्य वा पुनः दीयते च परिक्लिष्टं तत् दानं राजसं स्मृतम् ॥
अन्वयः
सम्पादयतुयत् तु प्रत्युपकारार्थं फलम् उद्दिश्य वा पुनः परिक्लिष्टं च दीयते तत् दानं राजसं स्मृतम् ।
शब्दार्थः
सम्पादयतु- प्रत्युपकारार्थम् = प्रत्युपकाराय
- उद्दिश्य = सल्प्य
- परिक्लिष्टम् = दुःखसहितम्
- स्मृतम् = कथितम्।
अर्थः
सम्पादयतुअयं मे काले प्रत्युपकारं करिष्यति इत्यभिप्रायेण, फलापेक्षया, सन्तापसहिततया वा यत् दानं क्रियते तत् राजसम् इति आख्यायते ।