सद्भावे साधुभावे च...
(१७.२६ सद्भावे साधुभावे च इत्यस्मात् पुनर्निर्दिष्टम्)
श्लोकः
सम्पादयतुअयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- सद्भावे साधुभावे च सदित्येतत्प्रयुज्यते ।
- प्रशस्ते कर्मणि तथा सच्छब्दः पार्थ युज्यते ॥ २६ ॥
अयं भगवद्गीतायाः सप्तदशोध्यायस्य श्रद्धात्रयविभागयोगस्य षड्विंशतितमः(२६) श्लोकः ।
पदच्छेदः
सम्पादयतुसद्भावे साधुभावे च सत् इति एतत् प्रयुज्यते प्रशस्ते कर्मणि तथा सत् शब्दः पार्थः युज्यते ॥
अन्वयः
सम्पादयतुपार्थ ! सद्भावे साधुभावे च सत् इति एतत् प्रयुज्यते तथा प्रशस्ते कर्मणि सत् शब्दः युज्यते ।
शब्दार्थः
सम्पादयतु- सद्भावे = अस्तित्वे
- साधुभावे = श्रेष्ठत्वे
- प्रयुज्यते = उच्चार्यते
- प्रशस्ते = श्लाघ्ये
- युज्यते = कथ्यते
अर्थः
सम्पादयतुअस्ति इति, श्रेम् इति च अर्थे प्रतिपादनीये सत् इति शब्दः प्रयुज्यते पण्डितैः । तस्मात् प्रशस्ते विवाहादौ कर्मणि सत् इदं कर्म' इति सत्’शब्दस्य प्रयोगः सुतरां सच्छते ।