कर्शयन्तः शरीरस्थं...
(१७.६ कर्शयन्तः शरीरस्थं इत्यस्मात् पुनर्निर्दिष्टम्)
श्लोकः
सम्पादयतुअयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- कर्शयन्तः शरीरस्थं भूतग्राममचेतसः ।
- मां चैवान्तःशरीरस्थं तान्विद्ध्यासुरनिश्चयान् ॥ ६ ॥
अयं भगवद्गीतायाः सप्तदशोध्यायस्य श्रद्धात्रयविभागयोगस्य षष्ठः(६) श्लोकः ।
पदच्छेदः
सम्पादयतुकर्शयन्तः शरीरस्थं भूतग्रामम् अचेतसः मां च एव अन्तः शरीरस्थं तान् विद्धि आसुरनिश्चयान् ॥
अन्वयः
सम्पादयतुदम्भाहङ्कारसंयुक्ताः कामरागबलान्विताः अचेतसः शरीरस्थं भूतग्रामम् अन्तःशरीरस्थं मां च एव कर्शयन्तः ये जनाः अशास्त्रविहितं घोरं तपः तप्यन्ते तान् आसुरनिश्चयान् विद्धि ।
शब्दार्थः
सम्पादयतु- दम्भाहङ्कारसंयुक्ताः = दम्भाभिमानसहिताः
- कामरागबलान्विताः = इच्छानुरागाग्रहयुक्ताः
- अशास्त्रविहितम् = अशास्त्रप्रतिपादितम्
- तप्यन्ते = कुर्वन्ति
- अचेतसः = अविवेकिनः
- शरीरस्थम् = देहस्थितम्
- भूतग्रामम् = इन्द्रियसमुदायम्
- अन्तःशरीरस्थम् = साक्षिभूतम्
- कर्शयन्तः = कृशीकुर्वन्तः
- आसुरनिश्चयान् = क्रूरनिर्णयान् ।
अर्थः
सम्पादयतुयेषु पुनः धार्मिकतया आत्मनः ख्यापनम्, अहङ्कारः, विषयाभिलाषः, विषयाभिनिवेशः, आग्रहः इत्यादयः गुणाः सन्ति ते अविवेकिनः स्वशरीरे वर्तमानं पृथिव्यादिभूतसमूहं मां च कृशीकुर्वन्तः अशास्त्रीयं घोरं तपः कुर्वन्ति । तादृशाः उग्रकर्माणः इति ज्ञातव्यम् ।