काम्यानां कर्मणां न्यासं...
(१८.०२ काम्यानां कर्मणां इत्यस्मात् पुनर्निर्दिष्टम्)
श्लोकः
सम्पादयतुअयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
श्रीभगवानुवाच -
- काम्यानां कर्मणां न्यासं सन्न्यासं कवयो विदुः ।
- सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः ॥ २ ॥
अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य द्वितीयः(२) श्लोकः ।
पदच्छेदः
सम्पादयतुकाम्यानां कर्मणां न्यासं सन्न्यासं कवयो विदुः सर्वकर्मफलत्यागं प्राहुः त्यागं विचक्षणाः ॥ २ ॥
अन्वयः
सम्पादयतुकाम्यानां कर्मणां न्यासं सन्न्यासं कवयः विदुः । सर्वकर्मफलत्यागं विचक्षणाः त्यागं प्राहुः ।
शब्दार्थः
सम्पादयतु- काम्यानाम् = फलमुद्दिश्य क्रियमाणानाम्
- कर्मणाम् = क्रियाणाम्
- न्यासम् = परित्यागम्
- कवयः = पण्डिताः
- विदुः = आचक्षते
- विचक्षणाः = विवेकिनः
- सर्वकर्मफलत्यागम् = सकलकर्मप्रयोजनपरित्यागम्
- प्राहुः = कथयन्ति ।
अर्थः
सम्पादयतुफलमुद्दिश्य क्रियमाणानां कर्मणां परित्यागं सन्न्यासः इति पण्डिताः आचक्षते । सर्वकर्म - प्रयोजनपरित्यागं विवेकिनः त्यागः इति कथयन्ति ।