नियतस्य तु संन्यासः...
(१८.०७ नियतस्य तु संन्यासः इत्यस्मात् पुनर्निर्दिष्टम्)
श्लोकः
सम्पादयतुअयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- नियतस्य तु सन्न्यासः कर्मणो नोपपद्यते ।
- मोहात्तस्य परित्यागस्तामसः परिकीर्तितः ॥ ७ ॥
अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य सप्तमः(७) श्लोकः ।
पदच्छेदः
सम्पादयतुनियतस्य तु सन्न्यासः कर्मणः न उपपद्यते मोहात् तस्य परित्यागः तामसः परिकीर्तितः ॥
अन्वयः
सम्पादयतुनियतस्य कर्मणः तु सन्न्यासः न उपपद्यते । मोहात् तस्य परित्यागः तामसः परिकीर्तितः ।
शब्दार्थः
सम्पादयतु- नियतस्य = नित्यस्य
- संन्यासः = परित्यागः
- न उपपद्यते = न युज्यते
- मोहात् = अज्ञानात्
- परिकीर्तितः = कथितः ।
अर्थः
सम्पादयतुकाम्यं नित्यं चेति यत् द्विविधं कर्म वर्तते तत्र नित्यस्य कर्मणः त्यागः सर्वथा न युज्यते । यदि अज्ञानात् तस्य त्यागः क्रियते तर्हि सः त्यागः तमोगुणप्रयुक्तः इति निश्चीयते ।