कार्यमित्येव यत्कर्म...

(१८.०९ कार्यमित्येव यत्कर्म इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः सम्पादयतु

 
गीतोपदेशः
कार्यमित्येव यत्कर्म नियतं क्रियतेऽर्जुन ।
सङ्गं त्यक्त्वा फलं चैव स त्यागः सात्त्विको मतः ॥ ९ ॥

अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य नवमः(९) श्लोकः ।

पदच्छेदः सम्पादयतु

कार्यम् इति एव यत् कर्म नियतं क्रियते अर्जुन सङ्गं त्यक्त्वा फलं च एव सः त्यागः सात्त्विकः मतः ॥

अन्वयः सम्पादयतु

अर्जुन ! सङ्गं फलं च एव त्यक्त्वा कार्यम् इति एव यत् नियतं कर्म क्रियते सः त्यागः सात्त्विकः मतः ।

शब्दार्थः सम्पादयतु

कार्यम् = कर्तव्यम्
नियतं कर्म = नित्यकर्म ।

अर्थः सम्पादयतु

हे अर्जुन ! अहं करोमीति कर्तृत्वाभिनिवेशं विना, फलापेक्षां च विना मया इदम् अवश्यं कर्तव्यम् इति बुद्ध्या यः कर्म करोति तत्र यः कर्तृत्वाभिनिवेशस्य तथा फलस्य त्यागः सः सात्त्विकः त्यागः इत्युच्यते ।

सम्बद्धसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु