ज्ञानं ज्ञेयं परिज्ञाता...
(१८.१८ ज्ञानं ज्ञेयं परिज्ञाता इत्यस्मात् पुनर्निर्दिष्टम्)
श्लोकः
सम्पादयतुअयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्मचोदना ।
- करणं कर्म कर्तेति त्रिविधः कर्मसङ्ग्रहः ॥ १८ ॥
अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य अष्टादशः(१८) श्लोकः ।
पदच्छेदः
सम्पादयतुज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्मचोदना करणं कर्म कर्ता इति त्रिविधः कर्मसङ्ग्रहः ॥
अन्वयः
सम्पादयतुज्ञानं ज्ञेयं परिज्ञाता इति कर्मचोदना त्रिविधा । करणं कर्म कर्ता इति कर्मसङ्ग्रहः त्रिविधः ।
शब्दार्थः
सम्पादयतु- ज्ञानम् = सर्वविषयज्ञानम्
- ज्ञेयम् = ज्ञातव्यम्
- परिज्ञाता = वेदिता
- कर्मचोदना = कर्मप्रवर्तना
- करणम् = साधनम्
- कर्म = ईप्सिततमम्
- कर्ता = आचरिता
- कर्मसङ्ग्रहः = कर्मप्रकारः ।
अर्थः
सम्पादयतुज्ञानं ज्ञेयं ज्ञाता चेति कर्मप्रवर्तकं त्रिविधम् । तत्र करणं स्रुगादि । कर्म ज्योतिोमादि । कर्ता च तन्निर्वर्तकः पुरुषः इति विवेकः ।