सर्वभूतेषु येनैकं...

(१८.२० सर्वभूतेषु येनैकं इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः सम्पादयतु

 
गीतोपदेशः
सर्वभूतेषु येनैकं भावमव्ययमीक्षते ।
अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्त्विकम् ॥ २० ॥

अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य विंशतितमः(२०) श्लोकः ।

पदच्छेदः सम्पादयतु

सर्वभूतेषु येन एकं भावम् अव्ययम् ईक्षते अविभक्तं विभक्तेषु तत् ज्ञानं विद्धि सात्त्विकम् ॥

अन्वयः सम्पादयतु

विभक्तेषु सर्वभूतेषु अव्ययम् एकं भावं येन ईक्षते तत् ज्ञानं सात्त्विकं विद्धि ।

शब्दार्थः सम्पादयतु

सर्वभूतेषु = सकलभूतेषु
अव्ययम् = अक्षरम्
भावम् = परमात्मतत्त्वम्
विभक्तेषु = पृथक् स्थितेषु
अविभक्तम् = विभागरहितम्
एकम् = अद्वितीयम्
ईक्षते = पश्यति
ज्ञानम् = सम्यक् ज्ञानम् ।

अर्थः सम्पादयतु

अत्र यावन्ति भूतानि सन्ति तानि परस्परं विभिन्नानि । तेषु सर्वत्र स्थितं समानं परमात्मतत्त्वं येन पश्यति तत् ज्ञानं सात्त्विकं जानीहि ।

सम्बद्धसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=सर्वभूतेषु_येनैकं...&oldid=418870" इत्यस्माद् प्रतिप्राप्तम्