पृथक्त्वेन तु यज्ज्ञानं...
(१८.२१ पृथक्त्वेन तु यज्ज्ञानं इत्यस्मात् पुनर्निर्दिष्टम्)
श्लोकः
सम्पादयतुअयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- पृथक्त्वेन तु यज्ज्ञानं नानाभावान्पृथग्विधान् ।
- वेत्ति सर्वेषु भूतेषु तज्ज्ञानं विद्धि राजसम् ॥ २१ ॥
अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य एकविंशतितमः(२१) श्लोकः ।
पदच्छेदः
सम्पादयतुपृथक्त्वेन तु यत् ज्ञानं नानाभावान् पृथक् विधान् वेत्ति सर्वेषु भूतेषु तत् ज्ञानं विद्धि राजसम् ॥
अन्वयः
सम्पादयतुसर्वेषु भूतेषु पृथग्विधान् नानाभावान् पृथक्त्वेन तु यत् ज्ञानं वेत्ति तत् ज्ञानं राजसं विद्धि ।
शब्दार्थः
सम्पादयतु- भूतेषु = प्राणिषु
- पृथग्विधान् = विविधान्
- नानाभावान् = भिन्नान् आत्मनः
- पृथक्त्वेन = भेदेन ।
अर्थः
सम्पादयतुसर्वेषु भूतेषु अयं दुःखी, अयं सुखी इत्यादिरूपेण नाना क्षेत्रज्ञान् येन पश्यति तत् ज्ञानं राजसं भवति।