यत्तु कृत्स्नवदेकस्मिन्...
(१८.२२ यत्तु कृत्स्नवदेकस्मिन्कार्ये इत्यस्मात् पुनर्निर्दिष्टम्)
श्लोकः
सम्पादयतुअयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- यत्तु कृत्स्नवदेकस्मिन्कार्ये सक्तमहैतुकम् ।
- अतत्त्वार्थवदल्पं च तत्तामसमुदाहृतम् ॥ २२ ॥
अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य द्वाविंशतितमः(२२) श्लोकः ।
पदच्छेदः
सम्पादयतुयत् तु कृत्स्नवत् एकस्मिन् कार्ये सक्तम् अहैतुकम् अतत्त्वार्थवत् अल्पं च तत् तामसम् उदाहृतम् ॥
अन्वयः
सम्पादयतुयत् तु एकस्मिन् कार्ये कृत्स्नवत् सक्तम्अहैतुकम् अतत्त्वार्थवत् अल्पं च तत् तामसम् उदाहृतम् ।
शब्दार्थः
सम्पादयतु- एकस्मिन् कार्ये = देहादौ
- कृत्स्नवत् = परिपूर्णवत्
- सक्तम् = लग्नम्
- अहैतुकम् = हेतुशून्यम्
- अतत्त्वार्थवत् = परमार्थशून्यम्
- अल्पम् = नीचम्
- तामसम् = तमस्सम्बन्धि
- उदाहृतम् = प्रोक्तम् ।
अर्थः
सम्पादयतुएकस्मिन् देहे प्रतिमादौ वा परिपूर्णवत् एतावानेव ईश्वरः इत्यभिप्रायेण सक्तम् , कारणविहीनम् परमार्थावलम्बनशून्यम्, तुच्छं च तत् ज्ञानं तामसमिति कथ्यते ।