अनुबन्धं क्षयं हिंसाम्...

(१८.२५ अनुबन्धं क्षयं इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः सम्पादयतु

 
गीतोपदेशः
अनुबन्धं क्षयं हिंसामनवेक्ष्य च पौरुषम् ।
मोहादारभ्यते कर्म यत्तत्तामसमुच्यते ॥ २५ ॥

अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य पञ्चविंशतितमः(२५) श्लोकः ।

पदच्छेदः सम्पादयतु

अनुबन्धं क्षयं हिंसाम् अनवेक्ष्य च पौरुषम् मोहादारभ्यते कर्म यत् तत् तामसम् उच्यते ॥

अन्वयः सम्पादयतु

अनुबन्धं क्षयं हिंसां पौरुषं च अनवेक्ष्य मोहात् यत् कर्म आरभ्यते तत् तामसम् उच्यते ।

शब्दार्थः सम्पादयतु

अनुबन्धम् = भावि अशुभम्
क्षयम् = शरीरश्रमादेः नाशनम्
हिंसाम् = प्राणिपीडनम्
पौरुषम् = सामर्थ्यम्
अनवेक्ष्य = अविगणय्य
मोहात् = अविवेकात् ।

अर्थः सम्पादयतु

पश्चात् भाविनम् अनर्थम्, शरीरसामर्थ्यस्य धनादेश्च नाशम्, प्राणिपीडनम्, आत्मसामर्थ्यं च अविचार्य अविवेकेनैव यत् कर्म क्रियते तत् तामसम् इति अभिधीयते ।

सम्बद्धसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु